(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.46. अध्यायः 046
Mahabharata - Vana Parva - Chapter Topics
अर्जुनस्य पाशुपतास्त्रलाभस्वर्लोकगमनादिश्रवणेन परिखिद्यता धृतराष्ट्रेण संजयाग्रे स्वपुत्रान्प्रति परिशोचनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

3-46-0(17635)
जनमेजय उवाच। 3-46-0x(1899)
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः।
धृतराष्ट्रो महातेजाः श्रुत्वा तत्र किमब्रवीत् ॥ 3-46-1(17636)
वैशम्पायन उवाच। 3-46-2x(1900)
शक्रलोकगतं पार्थं श्रुत्वा राजाऽम्बिकासुतः।
द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् ॥ 3-46-2(17637)
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस् धीमतः।
कच्चित्तवापि विदितं याथातथ्येन सारथे ॥ 3-46-3(17638)
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः।
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥ 3-46-4(17639)
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥ 3-46-5(17640)
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्।
नार्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥ 3-46-6(17641)
मम पुत्रा दुरात्मानः सर्वे मृत्युवशंगताः।
येषां युद्धं दुराधर्षैः पाण्डवैः समुपस्थितम् ॥ 3-46-7(17642)
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः।
अनिशं चिन्तयानोऽपि य एनमुदियाद्युधि ॥ 3-46-8(17643)
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे।
महान्स्यात्संशयोलोके न तु पश्यामि नो जयम् ॥ 3-46-9(17644)
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः।
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥ 3-46-10(17645)
भवेत्सुतुमुलं युद्धं सर्वस्याप्यपराजितम्।
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥ 3-46-11(17646)
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः।
वधे नूनं भवेच्छान्तिरेतेषां फल्गुनस्य वा ॥ 3-46-12(17647)
न तु हन्ताऽर्जुनस्यास्ति जेता वाऽस्य न विद्यते।
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥ 3-46-13(17648)
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्।
जिगा पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥ 3-46-14(17649)
शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि संजय।
न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना ॥ 3-46-15(17650)
यथा हि किरणा भानोस्तपन्तीह चराचरम्।
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मत्सुतान् ॥ 3-46-16(17651)
अपि तद्रथघोषेण भयार्था सव्यसाचिनः।
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥ 3-46-17(17652)
समुद्धरन्प्रवपंश्चैव बाणान्
स्ताताऽऽततायी समरे किरीटि।
सृष्टोऽन्तकः सर्वहरो विधात्रा
भवेद्यथा तद्वदवारणीयः ॥ 3-46-18(17653)
संजय उवाच। 3-46-19x(1901)
यदतत्कथितं राजंस्त्वया दुर्योधनं प्रति।
सर्वमेतद्यथातत्त्वं नतु मिथ्या महीपते ॥ 3-46-19(17654)
मन्युना हि समाविष्टाः पाण्डवास्त्वमितौजसः।
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीं ॥ 3-46-20(17655)
दुःशासनस्य ता वाचः श्रुत्वा वै कटुकोदयाः।
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥ 3-46-21(17656)
श्रुतं हि ते महाराज यथा पार्थेन संयुगे।
एकादशतनुः स्थाणुर्धेनुषा परितोषितः ॥ 3-46-22(17657)
कैरातं वेषमास्थाय योधयामास फल्गुनम्।
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥ 3-46-23(17658)
`लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः।'
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्।
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥ 3-46-24(17659)
नैतदुत्सहते चान्यो लब्धुमन्यत्र फल्गुनात्।
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥ 3-46-25(17660)
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्।
कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान् ॥ 3-46-26(17661)
आसादितमिदं घोरं तुमुलं रोमहर्षणम्।
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥ 3-46-27(17662)
यत्र विस्फुरमाणौष्ठो भीमः प्राह वचोऽर्थवत्।
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥ 3-46-28(17663)
ऊरुं भेत्स्यामि ते पाप गदया वज्रकल्पया।
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥ 3-46-29(17664)
सर्वे प्रहरतां श्रेष्ठाः सर्वेचामिततेजसः।
सर्वेसर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥ 3-46-30(17665)
मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे।
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥ 3-46-31(17666)
धृतराष्ट्र उवाच। 3-46-32x(1902)
किं कृतं सूत कर्णेन वदता परुषं वचः।
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥ 3-46-32(17667)
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः।
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥ 3-46-33(17668)
ममापि वचनं सूत न शुश्रूषति मन्दभाक्।
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम् ॥ 3-46-34(17669)
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः।
ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥ 3-46-35(17670)
स्वैरं मुक्ता ह्यपि शराः पार्थेनामिततेजसा।
निर्दहेयुर्मम सुतान्किंपुनर्मन्युनेरिताः ॥ 3-46-36(17671)
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः।
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥ 3-46-37(17672)
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः।
हनिस्त्रैलोक्यनाथः स किंनु तस् न निर्जितम् ॥ 3-46-38(17673)
इदं हि सुमहच्चित्रमर्जुनस्येह संजय।
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥ 3-46-39(17674)
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा।
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥ 3-46-40(17675)
सर्वथा न हि मे पुत्राः सहामात्याः सबान्धवाः।
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥ 3-46-41(17676)

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-46-5 ऋताः सत्याः ॥ 3-46-9 प्रतीयातां प्रतिगच्छेताम् ॥ 3-46-10 धृणी दयालुः। प्रमादी अनवहितः। संरम्भी उद्यमी ॥ 3-46-18 प्रवपन् प्रेरयन्। स्थाता स्थास्यति ॥ 3-46-25 नैतदुत्पत्स्यतेऽन्यो हि इति क. ध. पाठः ॥ 3-46-26 न जीर्णो न क्षीणः ॥ 3-46-31 अन्तं नाशम्। भार्यामर्षसमन्विताः इति झ. पाठः ॥ 3-46-33 विनये नीतौ ॥ 3-46-41 नहि सन्तीति शेषः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.